गुरुवार, 15 सितंबर 2016

संस्कृत कथा - कुम्भ-विद्या।

कुम्भ-विद्या :-
                                   एकस्मिन् ग्रामे एकः कृषकः आसीत्। तस्य नाम भोलारामः आसीत्। एकस्मिन् वर्षे वर्षायाः अभावेन तस्य क्षेत्रे अन्नम् उत्पन्नम् न अभवत्। अन्नाभावेन सः क्षेत्रस्य शुल्कम् दातुम् अपि असमर्थः अभवत्। अन्यस्मिन् दिने सः गृहं त्यक्त्वा बहिः अगच्छत्। सः खिन्नः सर्वम् दिनम् व्यर्थम् अभ्रमत्। बुभुक्षितः श्रान्तः च सः एकस्य वृक्षस्य छायायाम् सुप्तवान्। अर्धरात्रौ जागृतः सः अग्रे मन्दिरात् अवतरन्तम् कञ्चित् जनम् अपश्यत्। तस्य जनस्य हस्ते एकः विचित्रः कुम्भः आसीत्।
                            कृषकः अपश्यत् यत् सः जनः प्रसन्नः भूत्वा कुम्भम् धरायाम् स्थापितवान्। रेखाम् उत्कीर्य कुम्भम् परितः सः आज्ञापयत्---"हे कुम्भ, मह्यम् सुन्दरम् विष्टरम् आनय। तदनन्तरम् स्वादिष्टम् भोजनम् शीतलम् जलम् चानय। सेविकाः अपि आगच्छन्तु।।"
                               तत्क्षणमेव तत्र सुन्दरम् विष्टरम् सुसज्जितम् अभवत्। चतस्रः सेविकाः आगच्छन्। ताः सेविकाः स्वर्ण-पात्रे भोजनम्, रजत-कलशे जलम् आनीय तत्र उपस्थिताः अभवन्। बुभुक्षितः सः जनः सर्वम् अभक्षयत्। ततः सः कुम्भम् अवदत्---"हे कुम्भ, सर्वम् तुप्तम् कुरु।"
                                  तदा सर्वम् लुप्तम् अभवत्। सः कुम्भम् वस्त्रेण आच्छाद्य चलितुम् अयतत। चकितः भोलारामः धावित्वा तम् जनम् उपागच्छत्। तस्य पादयोः पतित्वा तम् अकथयत्---"हे दयालो , अहम् अति निर्धनः अस्मि। मयि कुपां कुरु। अनेन कुम्भेन मम सहायताम् कुरु।"
                                    सः दयालुः जनः प्रत्यवदत्---"हे कृषक, धैर्यधारणम् कुरु। कदाचित् अहम् अपि त्वादृशः इव निर्धनः आसम्। मुमुर्षुः अहम् एकस्मात् साधोः इमाम् कुम्भ-विद्याम् प्राप्तवान्। सप्तभिः दिनैः मन्त्रजपेन विद्या प्राप्ता भवति। इयम् विद्या अद्यैव सिद्धिम् गता अस्ति। अहम् कुम्भम् अद्य प्राप्तवान्। कुम्भम् गृृहीत्वा बहिः आगच्छम्। कुम्भविद्यायाः परीक्षणाय भोजनादिकम् सर्वम् आदिष्टवान्। त्वम् सर्वम् दृष्टवान् एव यत् कुम्भे असीमा शक्तिः अस्ति।य़ त्वमपि कुम्भ-विद्यायाः ज्ञानम् लभस्व। अथवा इमम् कुम्भम् एव गृहाण द्वयोः एकम् प्राप्स्यसि।"
                                  तस्य कथनं श्रुत्वा प्रसन्नः भोलारामः सप्तदिवसीयम् जपम् उपेक्ष्य कुम्भम् एव तम् अयाचत। सः जनः कुम्भात् धनम् गृहीत्वा भोलारामाय कुम्भम् अयच्छत्। भोलारामः कुम्भम् एकम् रथम् अयाचत। तम् रथम् आरुह्य सः गृहम् अगच्छत्। गृहम् आगत्य सः कुम्भम् प्रभूतम् धनम् अयाचत। धनेन सः सुन्दरम् गृहम् निर्मितवान्।
                                   एकस्मिन् दिवसे भोलारामः सर्वान् सम्बन्धिनः परिचितान् च भोजनाय निमन्त्रितवान्। उत्सव-समये भोलारामः कुम्भम् शिरसि निधाय अनृत्यत्। अकस्मात् पतितः कुम्भः पादाघातेन शकलीभूतः अभवत्। स्फुटिते कुम्भे सर्वम् लुप्तम् अभवत्। सर्वे तम् उपाहसन्। दुःखितः भोलारामः अचिन्तयत्--"अहम् किम् कृतवान्। कुम्भम् प्राप्तवान् कुम्भविद्याम् न ज्ञातवान् अहो मम दुर्भाग्यम्।"

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें