शुक्रवार, 15 जनवरी 2016

कथा मञ्जरी। - १

!!!---: परमं तपः :---!!! ==================== वन में रहने वाले तपस्वी से गृह में रहने वाले तपस्वी अधिक श्रेष्ठ और योग्य होते हैं --- कस्मिंश्चिद् अरण्ये एकः साधुः उटजं निर्माय तपस्यति स्म । मन्त्रजपः एव तस्य प्रधानं कार्यम् आसीत् । शीत-वात- आतप-वर्षादीनां कष्टानि सोढ्वा स सन्तोषवृत्त्या समयं नयति स्म । तस्य केचिद् भक्ताः नगराद् आगत्य तस्मै भोजनादिकं अददुः । कदाचित् भोजनस्य अभावे स क्षुधाकष्टम् असहत । एकदा स्नानं कृत्वा यदा स वृक्षमूले उपवाशत्, कश्चित् काकः तत्स्य शिरसि विष्ठां विससर्ज । स तपस्वी क्रुद्धो भूत्वा उपरि दृष्टिमक्षिपत्त त्क्षणमेव स काकः दग्धो भूत्वा भूमौ अपतत् । ईदृशं तपःप्रभावं वीक्ष्य तस्य तापसस्य चित्ते अहंभावः पदमादधे । कः अस्ति मादृशः तपस्वी इति चिन्तयन् साधनां परित्यज्य नगरं प्रति प्रचलितः । क्षुधया आर्तः सन् स कस्यचिद् गृहस्थस्य द्वारमुपेत्य "भिक्षां देहि" इति उच्चैः उच्चार्य प्रतीक्षामकरोत् । गृहाभ्यन्तरात् काचित् महिला अवदत्---"कृपया किञ्चित् कालं प्रतीक्षस्व, अहं सद्यः एव "गृहमुपेत्य पत्युः शुश्रूषायां संलग्ना अस्मि ।" कतिचित् कलाः अतीताः । स तापसः सक्रोधम् अवदत्---"कथं चिरायसे भिक्षादाने । एवं त्वं तपस्विनम् अवहेलयसे जानासि परिणामम् ?????" एवं तस्य कठोरवचनम् आकर्ण्य सा महिला स्मयमाना अभाषत---"अहं वनस्य कराकः काकः नास्मि, यः तव कोपदृष्ट्या भस्मीभूतः । क्षणं प्रतीक्षा विधेया। पत्ये भोजनं दत्त्वा अहं भिक्षामानयामि ।" तस्याः साभिप्रायं वचनं श्रुत्वा विस्मयविमुग्धः तापसः अचिन्तयत्---"विजने वने घटितं वृत्तान्तमेषा कथं जानाति ।" स भक्त्या तां प्रणम्य पृच्छति---"मातः ! कथं भवत्या काक-दहनवृत्तमवगतम् ।" सा अवदत्--"अहं पत्युः सेवां प्रथमं धर्मं जानामि । पातिव्रत्य--प्रभावात् मया वने घटितं वृत्तं ज्ञातम् । यदि किञ्चिद् अपरं ज्ञातुं कामयसे तदा ग्रामान्तरे रामरत्नं नाम आपणिकं पृच्छ ।" तापसः ततः प्रस्थाय आपणिकमुपेतः । स दूरतः एव तं विलोक्य प्रोवाच---"भवान् तस्या महिलायाः सकाशाद् किञ्चित् ज्ञातुमागतः । इह आस्यताम् ।" तपस्वी पुनः विचारमग्नः जातः । मया द्वादश वर्षाणि तपः तप्तं किन्तु भूतभविष्यद्वृत्तं न जानामि । एष आपणिकः तपस्यां विना कथं सर्वं जानाति ? विचारदोलाम् आरूढं तं वीक्ष्य आपणिकः जगाद---"भो, तपस्विन् विस्मयं मा कुरु । यः जनः स्वकर्त्तव्यं निष्ठया आचरति तस्य परिचित्तज्ञानं जायते । अहं ग्राहकेभ्यः वस्तूनाम् उचितं मानं ददामि , सत्यं च वदामि तत्प्रभावाद् अहं सर्वं भवतः चरितं वेद्मि । भवान् वृद्धौ पितरौ असहायौ परित्यज्य तपसि रतः । एतत् समुचितं न कृतम् । भवता गृहं गत्वा तयोः परिचरणम् विधेयम् । तेन भवतः कल्याणं भविष्यति । कर्त्तव्यपालनम् एव परमं तपः ।" शुभं भवतु ============================ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें