सोमवार, 11 जनवरी 2016

अद्य मानवः जीवनशैली परिवर्तनीयाः।


अद्य मानवः समस्यावर्ते पतितः। एकत्र देहस्य रोगाः, अन्यत्र मनसः चिन्ताः। एकत्र प्रातिवेशिकैः सह कलहाः, अन्यत्र कार्यवैफल्येन नैराश्यम्‌। सदा परेषां निन्दा, मया प्राप्तव्यं गौरवं न लब्धम्‌ इति अतृप्तिः। अस्य सर्वस्य दुःखस्य कारणं किम्‌? इति विचारयामश्चेत्‌, अद्यतनी जीवनशैलीति स्पष्टं ज्ञायते। जीवनशैल्याः परिवर्तनां विना मार्गान्तरं नास्ति। तत्कथम्‌ इति विचारयामः। सर्वदा सुखेन वस्तव्यं, मम शरीरस्य कोऽपि श्रमो मा भूदिति सर्वोद्य चिन्तयति। स्वल्पं दूरम्‌ अपि पद्‌भ्यां न चरति। सर्वत्र वाहनम्‌ अपेक्षते। गृहे पूर्वं व्रीहिं कुट्टन्ति स्म, एधांसि खण्डयन्ति स्म, गोधूमं तण्डुलं च अरघट्टचालनेन चूर्णी कुर्वन्ति स्म। अधुना तु तण्डुला एव क्रीयन्ते, तण्डुलचूर्णं गोधूमचूर्णं च सिद्धम्‌ एवापणे लभ्यते, पाकाय एधसाम्‌ उपयोगो नास्ति, अतः श्रमस्यावकाश एव नास्ति। अतो नरोऽद्य न स्विद्यति। व्यायामाभावात्‌ शरीरस्य स्थौल्यं, तारुण्य एव मधुमेहः, अस्थ्नां च दौर्बल्यम्‌। अत एव व्याधयः। अद्यत्वे सर्वः स्पर्धते सर्वैरितरैः। विद्याभ्यासे प्रथमस्थानाय स्पर्धा। उद्योगप्राप्तये स्पर्धा। उद्योगे पुनः पदोन्नतये स्पर्धा । तत्र वैफल्येन चिन्ता। सैव 'आधिः' इति उच्यते। 'पुंस्याधिर्मानसी व्यथा' इत्यमरः। अधिव्याधिभ्यां पीडितो न निद्रां लभते। निद्राहीनता पुनरन्यव्याधेः कारणम्‌ । अधुना मानवस्य तृप्तिरेव नास्ति। मम मित्रेण प्रशस्तिर्लब्धा, मया न किञ्चािल्लब्धम्‌ इति परितप्यते सर्वः। पद्मश्रीप्रशस्तिर्लब्धव्येति काङ्क्षति। अतृप्त्या सदा खिद्यति। एतत्सर्वं परित्यज्य यदि संन्यासं स्वीकरोति, तत्रापि अन्यैः संन्यासिभिः सह स्पर्धते । पुनः समस्यावर्ते पतति । इन्द्रियनिग्रहं कर्तुम्‌ असमर्थः समाजे हास्यपात्रं भवति । जीवनशैली परिवर्तनीया । यावच्छक्ति शरीरश्रमः कर्तव्यः। यत्र पद्‌भ्यां गन्तुं शक्यं, तत्र वाहनेन न गन्तव्यम्‌ । यन्त्रोपयोगः आवश्यके अवसरे एव भवतु। शरीरे स्वेदो यथोत्पद्येत तथा तृप्यतु सर्वः। अस्मभ्यम्‌ अपि हीनाः, दुःखम्‌ अधिकम्‌ अनुभवन्तोऽपि लोक वर्तन्ते इति स्मरणीयम्‌। भगवता दत्तेऽवसरे यथाशक्ति परोपकारः कर्तव्यः। परेषाम्‌ अपि सम्पदि सन्तोषः प्राप्तव्यः। इदं शरीरं पोषितमपि पालितमपि अन्ततो भस्मान्तं भविष्यतीति सत्यं कदापि न विस्मरणीयम्‌। एवं सौमनस्येन जीवनं यापनीयम्‌। तदर्थं नूतने वर्षे सङ्कल्पं करवामहै ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें